वांछित मन्त्र चुनें

स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनां॒ तस्मि॑न्ना॒त्मा जग॑तस्त॒स्थुष॑श्च । तन्म॑ ऋ॒तं पा॑तु श॒तशा॑रदाय यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥

अंग्रेज़ी लिप्यंतरण

sa retodhā vṛṣabhaḥ śaśvatīnāṁ tasminn ātmā jagatas tasthuṣaś ca | tan ma ṛtam pātu śataśāradāya yūyam pāta svastibhiḥ sadā naḥ ||

पद पाठ

सः । रे॒तः॒ऽधाः । वृ॒ष॒भः । शश्व॑तीनाम् । तस्मि॑न् । आ॒त्मा । जग॑तः । तु॒स्थुषः॑ । च॒ । तत् । मा॒ । ऋ॒तम् । पा॒तु॒ । श॒तऽशा॑रदाय । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥ ७.१०१.६

ऋग्वेद » मण्डल:7» सूक्त:101» मन्त्र:6 | अष्टक:5» अध्याय:7» वर्ग:1» मन्त्र:6 | मण्डल:7» अनुवाक:6» मन्त्र:6


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सः) वह परमात्मा (रेतोधाः) प्रकृतिरूप बीज के धारण करनेवाला है, (शश्वतीनाम्) अनन्त प्रजाओं में (वृषभः) वर्षिता (निरु. १, ८) सुख की वृष्टि करनेवाला है, (तस्मिन्) उसी परमात्मा में (जगतः, तस्थुषः, च) स्थावर और जङ्गम संसार के सब जीव विराजमान हैं, (तत्) वह ब्रह्म (शतशारदाय) सैकड़ों वर्षों तक (मा) हमारी (ऋतम्) सच्चाई की (पातु) रक्षा करे, हे परमात्मन् ! (यूयम्) आप (स्वस्तिभिः) मङ्गल कार्यों द्वारा (सदा) सदैव (नः) हमारी (पात) रक्षा करें ॥६॥
भावार्थभाषाः - जिस परमात्मा में चराचर सब जीव निवास करते हैं और जो प्रकृतिरूपी बीजकोष धारण किये हुए है, अर्थात् जिससे तीनों गुणों की साम्यावस्थारूप प्रकृति और जीवरूप प्रकृति सदा भिन्न होकर विराजमान हैं, उसी एकमात्र परमात्मा से अपने सदाचार और सत्यता की प्रार्थना करनी चाहिये ॥६॥ यह १०१वाँ सूक्त और पहला वर्ग समाप्त हुआ ॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सः) स परमात्मा (रेतोधाः) प्रकृतिरूपबीजस्य धाता तथा (शश्वतीनाम्) अनन्तासु प्रजासु (वृषभः) वर्षिता सुखानां (तस्मिन्) तस्मिन्नेव परमात्मनि (जगतः, तस्थुषश्च) स्थावरा जङ्गमाश्च जीवा वर्तन्ते (तत्) स ईश्वरः (शतशारदाय) वर्षशतपर्यन्तं (मा) मम (ऋतम्) सत्यं (पातु) रक्षतु, हे परमात्मन्, (यूयम्) भवान् (स्वस्तिभिः) मङ्गलवाग्भिः (सदा) शश्वत् (नः) अस्मान् (पात) रक्षतु ॥६॥इत्येकोत्तरशततमं सूक्तं प्रथमो वर्गश्च समाप्तः ॥